एष ते आत्मा सर्वान्तरः...

विकिसूक्तिः तः

एष ते आत्मा सर्वान्तरः, अतोऽन्यदार्तम् । - बृहदारण्यकोपनिषत् ३-४-२

एष एव ते आत्मा, एष एव सर्वान्तरः, एतस्माद् आत्मनः
अन्यत् सर्वम् आर्तमेव ।

याज्ञवल्क्यमहर्षेः सिंहगर्जनमेतत् । अस्मिन् मन्त्रे आत्मनः
स्वरूपं महिमा च वर्णितोऽस्ति । आप्नोति इति आत्मा,
सर्वेषु वस्तुषु परिपूर्णः इत्यर्थः । आत्मा नाम सर्वस्यापि
सारभूतः, सर्वस्यापि आन्तरः, सर्वस्यापि व्यापकः मूलभूतः
कारणभूतः इत्यर्थः । अयमेव सर्वान्तरभूतः । सर्वप्रमाणानामपि
आत्मभूतमेनमात्मानं न केनापि प्रमाणेन विषयीकर्तुं शक्यते ।
अयमात्मा एव सत्यम्, अयमेव आनन्दस्वरूपः, अयमेव च
परमार्थभूतः ॥

इमम् आत्मानं विहाय अन्यत् सर्वमपि आर्तमेव । आर्तं नाम
अनित्यम्, विनाशि इत्यर्थः । आत्मा एक एव अविनाशी
अविकारी सत्यस्वरूपः । देशकालयोरपि कारणभूतस्य आत्मनः
कुतो वा नाशः ? देशकालपरिच्छिन्नानाम् अनात्मवस्तूनाम्
अस्तित्वं कुतो वा कथं वा भवेत् ? सर्वाणि अनात्मवस्तूनि
दुःखस्वरूपाण्येव ॥