एष ब्रह्म, एष इन्द्रः...

विकिसूक्तिः तः

एष ब्रह्म, एष इन्द्रः, एष प्रजापतिः, एते सर्वे देवाः, इमानि पञ्च महाभूतानि ।
पृथिवी वायुः आकाश आपो ज्योतींषि इत्येतानि इमानि च क्षुद्रमिश्राणीव॥ - ऎतरेयोपनिषत् ३-१-३

अयमात्मैव अपरं ब्रह्म, अयमेव च इन्द्रः, अयं प्रजापतिः अयमेव सर्वे देवाः । अयमात्मैव
भूमिः वायुः आकाशः आपः अग्निश्च इति पञ्चभूतानि । अयमात्मैव क्षुद्रमिश्रप्राणिनश्च ॥

प्रज्ञानस्वरूपोऽयमात्मैव सकलप्राणिरूपेण अवभासते । उपाधिष्वेव नीचोच्चभावः, न तु
चिन्मात्रस्वरूपे आत्मनि कश्चिदपि भेदः सम्भवति । आत्मा एक एव, नामरूपाणि तु भिन्नभिन्नानि ॥

अस्मिन् विशाले विश्वे प्रप्रथमजो नाम हिरण्यगर्भः, अस्यैव ‘ब्रह्मा’ इति नामान्तरम् । अयमेव
‘अपरं ब्रह्म’ इति व्यपदिश्यते । अयमेव वैश्वानरः, विराटपुरुषश्च । अयमेव सर्वेषां प्राणिनां
मूलकारणम् । अयं परमार्थतः परेमेव ब्रह्म । इन्द्रः प्रजापतिः, देवाः, मानवाः, राक्षसाः पशवः
पक्षिणश्च – इत्येते परमार्थतः परब्रह्मस्वरूपा एव ॥

"https://sa.wikiquote.org/w/index.php?title=एष_ब्रह्म,_एष_इन्द्रः...&oldid=16266" इत्यस्माद् प्रतिप्राप्तम्