एष सर्वेषु भूतेषु...

विकिसूक्तिः तः

स्वान्तःस्थमपि न जानीमः !

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ - काठकोपनिषत् १-३-१२

एष आत्मा सर्वेषु भूतेषु गूढोऽपि न अज्ञानिनां प्रकाशते, अपि तु सूक्ष्मदर्शिभिः
अग्र्यया सूक्ष्मया बुद्ध्या आत्मा गृह्यते ॥

अनेके साधकाः परमात्मदर्शनेच्छया उग्रं तीव्रं तपश्चरन्ति । तपः प्रभावेण च
तेषां संकल्पशक्तिः, वाक्छक्तिः, जनाकर्षण-धनाकर्षणशक्तयश्च सुलभा भवेयुः ।
नैताः सिद्धयः आत्मज्ञानम् उत्पादयन्ति । न चैतत् आत्मदर्शनं भवति । नैते
तपस्विनः आत्मविदः । यतो हि स्वात्मस्थमपि आत्मानं नैते जानीयुः ॥

तर्हि कथमात्मदर्शनम् ? सूक्ष्मया बुद्ध्या प्रत्यगात्मस्वरूपभूतया, सार्वत्रिकपरिपूर्णानुभवरूपया,
अतीन्द्रियरूपया । शास्त्राचार्याणाम् उपदेशं श्रुत्वा, तस्य अर्थं मत्वा, ततो निदिध्यासनं
कृत्वा ततो मनः सुसंस्कृतं भवति एकाग्रं च भवति । तदा मनसोऽपि साक्षिभूतः
प्रत्यगात्मैव स्वयम् इति निश्चयज्ञानं जायते । इदमेव तु आत्मज्ञानं नाम । अनेनैव
ज्ञानेन हि मुक्तिर्लभ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=एष_सर्वेषु_भूतेषु...&oldid=16291" इत्यस्माद् प्रतिप्राप्तम्