एष हि द्रष्टा स्प्रष्टा श्रोता...

विकिसूक्तिः तः

आत्मा एक एव, नामानि अनेकानि

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता
विज्ञानात्मा पुरुषः । स परेऽक्षरे आत्मनि सम्प्रतिष्ठते ॥ - प्रश्नोपनिषत् ४-९

एष एव एक आत्मा द्रष्टा, स्प्रष्टा, श्रोता, घ्राता, रसयिता, मन्ता,
बोद्धा, कर्ता, विज्ञानात्मा पुरुषः । सः पुरुषः परे अक्षरे आत्मनि सम्प्रतिष्ठते ॥

अद्वितीयः परमात्मा एव उपाधिभेदेन नानारूपेण अवभासते । जीवात्मरूपेण
दृश्यमानोऽपि अयं परमात्मा एव । न हि जीवात्मा परमात्मा इति परमार्थत
एव द्वौ आत्मानौ स्तः । आत्मा एक एव, नामरूपोपाधयस्तु भिन्नविभिन्नाः ।

एक एव आकाशः घटाकाशः, करकाकाशः, महाकाश इव; एक एव कार्पासो
नानाविधवस्त्ररूपेण इव; एकमेव सुवर्णम् अङ्गुलीयकम्, चूडामणिः केयूरम्,
कुण्डलम्, हार इव यथा दृश्यते; एवमेव एक एव आत्मा कर्ता, द्रष्टा, गन्ता,
श्रोता इत्यादिरूपेण अवभासते । उपाधिभेदेनैव आत्मनः नानानामानि नाना
रूपाणि च । परमार्थतस्तु इदं सर्वम् आत्मैव ॥