एहि रे समर्पयेम...

विकिसूक्तिः तः

एहि रे समर्पयेम...


एहि रे समर्पयेेम मित्र ! मातृचरणयो:
तनुतृणं धनचयं, भवतु रुधिरतर्पणम् ।
किं नु पश्यसि त्वदीय-मातृ-वदन-म्लानतां
किमु ह्रिया, त्यज भियं, विक्लव: किमर्पणे ॥

मलयमारुतस्त्वदीयस्वागतं विधास्यति
सनातनी परम्परा प्रेरिका भविष्यति ।
भवेम धन्यजीविन: समानचिन्तका वयं
चल पुर:, सह मया, समाश्रय ध्रुवां धृतिम् ॥

वीरसू: शूरभू: स्थैर्यधैर्यभूरियं
सखे न भीरुभूरियं न भोगलालसास्पदम् ।
नरोऽप्यवाप्तुमर्हतीह देवतासमानतां
स्मर चिरं, भर धियं, साधयेम विक्रमम् ॥

राष्ट्रमुद्धर्तुमेहि ध्येयसाधनव्रत !
मन्युरस्तु बलिपशु: कार्यदीक्षितो भव ।
धर्मसक्त कर्मनिष्ठ ॠषिकुलोद्भव सखे
धर धुरं, दृढमते, याम ध्येयसिद्धये ॥


- जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=एहि_रे_समर्पयेम...&oldid=15413" इत्यस्माद् प्रतिप्राप्तम्