कःखगौघाङचिच्छौजा...

विकिसूक्तिः तः


चित्रकाव्यम्

कःखगौघाङचिच्छौजा झाञ्ज्ञोऽटौठीडडण्ढणः ।
तथोदधीन् पफर्बाभीर्मयोऽरिल्वाशिषां सहः ॥


वैशिष्ट्यम्

अस्मिन् श्लोके सर्वाणि व्यञ्जनानि क्रमेण उपयुक्तानि सन्ति ।


अर्थः

कोयं यः पक्षिप्रियः, शुद्धचित्तः, अन्येषां शक्तिहरणे निपुणः, अरिनाशकानां नायकः, स्थिरबुद्धिः, निर्भयः, यः सागरम् अपूरयत् सः एव राजा मायः, आशिषां निधानरूपः याः अरिनाशने समर्थाः ।



"https://sa.wikiquote.org/w/index.php?title=कःखगौघाङचिच्छौजा...&oldid=15748" इत्यस्माद् प्रतिप्राप्तम्