कटकगवोदाहरणन्यायः

विकिसूक्तिः तः

स्वस्य गवां संरक्षणं न भवतीति एकः गोपालकः लक्षितवान् । तासां संरक्षणार्थं सः एकं रक्षणवलयं निर्माय गाः तत्र स्थापितवान् । एकदा अग्निस्फोटकारणेन सर्वाः गावः भस्मसात् अभवन् । एतेन ज्ञायते यत् वयं कस्यापि रक्षणस्य कृते उपायं कर्तुं शक्नुमः परन्तु तस्य संपूर्णं संरक्षणं तावत् दैवाधीनम् एव इति । संरक्षणस्य सर्वविधां व्यवस्थां कृत्वाऽपि वयं तस्य संरक्षणं कर्तुं न शक्नुमः दैवेन तस्य नाशः भवेत् एव इति अस्य न्यायस्य तात्पर्यं भवति ।

"https://sa.wikiquote.org/w/index.php?title=कटकगवोदाहरणन्यायः&oldid=8992" इत्यस्माद् प्रतिप्राप्तम्