कथमसतः सज्जायेत...

विकिसूक्तिः तः

कथमसतः सज्जायेत इति । सत्त्वेव सोम्य इदमग्र आसीत्
एकमेवाद्वितीयम् । - छान्दोग्योपनिषत् ६-२-२

असतो हि कथं सत् वस्तु जायेत ? हे सोम्य, इदं जगत् अग्रे
एकमेव अद्वितीयं सदेव आसीत् ॥

जगत्सृष्टिविषये असत्कार्यवादः सत्कार्यवादश्च इति द्वौ पक्षौ स्तः ।
सत्कार्यवादः सांख्यवेदान्तदर्शनयोः प्रतिपादितः । असत्कार्यवादस्तु
वैशेषिकदर्शने प्रतिपाद्यते ॥

सत्कार्यवादो नाम विद्यमानस्यैव कारणस्य कार्यरूपेण अवभासः ।
इदानीं नामरूपाभ्यां भिन्नविभिन्नतया दृश्यमानमिदं जगत् सृष्टेः
पूर्वं ब्रह्मस्वरूपेणैव आसीत् । एवं पुरा विद्यमानमेव ब्रह्म इदानीं
प्रपञ्चरूपेण अवभासते ॥

असतः अविद्यमानाद्वस्तुनः, सद्वस्तु सन् पदार्थः कथं जायेत ? न
कथंचिदपि जायेत इत्यर्थः । युक्त्या वा श्रुत्या वा असद्वादः न
समर्थ्येत । तस्मात् असद्वादः असारः । इदं जगत् पुरा एकमेव
अद्वितीयं ब्रह्मैव आसीत् । इदानीमपि ब्रह्मैव अस्ति । न कदापि
ब्रह्मभिन्नतया इदं जगदस्ति इत्यभिप्रायः ॥

"https://sa.wikiquote.org/w/index.php?title=कथमसतः_सज्जायेत...&oldid=16360" इत्यस्माद् प्रतिप्राप्तम्