कदम्बगोलकन्यायः

विकिसूक्तिः तः

कदम्बवृक्षस्य एकदैव कलिकाः भवन्ति तथैव व्यवहारे काश्चन घटनाः सकृदेव भवन्ति । एवं एकवारमेव घटमानानां विषये अस्य न्यायस्य प्रयोगो भवति । <poem> यथा - १. पित्रा स्वपाणिपद्मेन स्पृश्यमानोऽवनिं प्रति उत्कोरकदम्बाभो बभूव पुलकाङ्कुरैः ॥ (हेमचन्द्र परिशिष्टपर्व १-२४) ध्वनेः उत्पत्तिविषयेऽपि अस्य प्रयोगः क्रियते इति केषाञ्चन पण्डितानां मतम्- २. वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बकोरकन्यायादुत्पत्तिः कस्यचिन्मते ॥ (जयन्तन्यायमञ्जरी २१४,२२८)

"https://sa.wikiquote.org/w/index.php?title=कदम्बगोलकन्यायः&oldid=9030" इत्यस्माद् प्रतिप्राप्तम्