कदर्थितस्यापि हि धैर्यवृत्तेः...

विकिसूक्तिः तः

सुभाषितम्

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥

kadarthitasyāpi hi dhairyavr̥ttērna śakyatē dhairyaguṇaḥ pramārṣṭum ।
adhōmukhasyāpi kr̥tasya vahnērnādhaḥ śikhā yānti kadācidēva ॥

पदच्छेदः

कदर्थितस्य, अपि, हि, धैर्यवृत्तेः, न, शक्यते, धैर्यगुणः, प्रमार्ष्टुम्, अधोमुखस्य, अपि, कृतस्य, वह्नेः, न, अधः, शिखा, यान्ति, कदाचित्, एव ।


तात्पर्यम्

दरिद्रश्चेदपि यदि सः धैर्यवान् भवति, तर्हि तस्य धैर्यगुणः दूरीकर्तुं न शक्यः । यथा अधोमुखं कृतस्य अपि अग्नेः ज्वाला अधोदिशि न गच्छति, सर्वदा उन्मुखी एव भवति ।