कनककुण्डलन्यायः

विकिसूक्तिः तः

सुवर्णं सुवर्णस्य आभूषणानि च नाम्ना रुपेण च भिन्नानि भवन्ति चेदपि सुवर्णस्य दृष्ट्या तानि एकरुपाणि एव । तेषां पूर्णतः साम्यं भवति । तथा कार्यस्य कारणस्य च मध्ये तादात्म्यम् अस्ति इति अयं न्यायःबोधयति । एतत् जगत् एकं कार्यं, ब्रह्म च एतस्य कारणं तथा द्वयोः अपि अभेदः एव इति अनेन न्यायेन सूच्यते । यथा -वाचारम्भणं विकारो नामधेयं सुवर्णमित्येव सत्यम् । सुवर्ण- अलङ्काराणाम् उदाहरणद्वारा श्रीगुलाबरावमहाराजः अनध्यस्तविवर्तनामकं सिद्धान्तं प्रतिपादितवान् ।

"https://sa.wikiquote.org/w/index.php?title=कनककुण्डलन्यायः&oldid=9036" इत्यस्माद् प्रतिप्राप्तम्