कन्दुकन्यायः

विकिसूक्तिः तः

कियता अपि बलेन कन्दुकम् अधः दमयामः चेत् अपि कन्दुकः उपरि एव वेगेन आगच्छति । सः तस्य स्वभावः । तथैव सज्जनानां कियदपि दमनं कृतं चेदपि, तेषां नाशार्थं प्रयत्नः कृतः चेदपि तेषां दमनं न भवति । ते स्वकौशलेन प्रतिभया च यशः एव प्राप्नुवन्ति इति अस्य अर्थः । (सा.९९०)

"https://sa.wikiquote.org/w/index.php?title=कन्दुकन्यायः&oldid=9055" इत्यस्माद् प्रतिप्राप्तम्