कन्या

विकिसूक्तिः तः
  • अर्थो हि कन्या परकीय एव ।
    • अभिज्ञानशाकुन्तलम्, IV. २२
  • कन्यायाश्च परार्थतैव हि मता ।
    • माहवीरचरितम्, I. ३०
  • कन्यायाश्च वरसम्पत्तिः पितुः प्रयत्नतः ।
    • यज्ञ्फलम्, II . ५
  • गुणवते कन्या प्रतिपादनीया, इति अयं तावत् प्रथमः संकल्पः ।
    • अभिज्ञानशाकुन्तलम्, पृ ० १८१
  • धनं परस्यैव हि कन्यकाजनो, निक्षेपमात्रं पित्तृगेहवर्तनम् ।
    • कमलिनीकलहंसम्, IV. २
  • निर्भिन्नं खलु हृदयरहस्यं कोपयति कन्यकाजनम् ।
    • तपतीसंवरणम्, पृ ० ८३
  • एकाकिन्यै कन्यायै स्त्रियै च अतित्रासदोऽसौ समाजः ।
    • आक्रन्दनम्, पृ ० ८३
  • नास्तिकुलकन्यकाजनस्य स्वच्छन्दता ।
    • कमलिनिकलह्ंसम्, पृ ० ४३
  • यस्मिन् गृहे कुले जाताः
पोषिताः स्नेहवर्धिताः ।
तद् विहाय ग्रुहं क्षिप्रां
प्रयान्त्येता नवाश्रयम् ॥
नाट्यलतिका, पृ ० २९

कन्यादानम्[सम्पाद्यताम्]

  • अदत्ते त्यागता लज्जा दत्तेति व्यथितं मनः ।
धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥
    • प्रतिज्ञायौगन्धरायणम्, II. ७
  • गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रतिदूतसम्प्रेषणम् वर्तते ।
    • प्रतिज्ञायौगन्धरायणम्, पृ०७४
  • जामातृसम्पत्तिमचिन्तयित्वा , पित्रा तु दत्ता स्वमनोभिलाषात् ।
    • अविमारकम्, I. ३
  • कन्यापितुर्हि सततं बहु चिन्तनीयम् ।
    • अविमारकम्, I.२


  • न तत्र कर्त्तव्यमिहास्ति लोके, कन्यापितृत्वं बहुवन्दनीयम् ।
    • अविमारकम्, I.९
"https://sa.wikiquote.org/w/index.php?title=कन्या&oldid=6188" इत्यस्माद् प्रतिप्राप्तम्