कपिञ्जलन्यायः

विकिसूक्तिः तः

ब्राह्मणग्रन्थेषु ‘कपिञ्जलानालभेत्’ इति विधिः कश्चन दृश्यते । कपिञ्जलपक्षिणां बलिः अनेन विधिवाक्येन बोध्यते । परन्तु कति पक्षिणः बलिरुपेण समर्पणीया इति स्पष्टं न कथितम् । मूलवाक्ये बहुवचनप्रत्ययस्य कारणेन इयं शङ्का भवति । तस्याः समाधानम् एवं भवति यत्-बहुवचनकारणेन न्यूनतमपक्षे त्रयाणां कपिञ्जलपक्षिणां बलिः अभिप्रेतः इति सयुक्तिकः अर्थः । व्याकरणादि-विशिष्ट- संकेतेभ्यः वाक्यार्थः प्राप्तव्य इति बोधयितुम् अस्य न्यायस्य प्रयोगः क्रियते । (जैमिनिसूत्रम् ११-१-३८-४६)

"https://sa.wikiquote.org/w/index.php?title=कपिञ्जलन्यायः&oldid=9058" इत्यस्माद् प्रतिप्राप्तम्