करिघण्टान्यायः

विकिसूक्तिः तः

मत्तगजः स्वैरं विहरति तस्य नियन्त्रणं कठिनमेव कार्यम् । परन्तु सः गजः मत्तः इति कारणेन जनाः तस्मात् दूरे भवन्तु इति सूचयितुं तस्य गजस्य कण्ठे घण्टा बध्यते । यदा शारीरकबलस्य अपेक्षया बुद्धिः गरीयसी इति सूचनीयं भवति तदा अस्य न्यायस्य प्रयोगः भवति ।

मतिरेव बलाद् गरीयसी यदभावे करिणामियं दशा ।
इति घोषयतीव डिण्डिमः करिणो ह्स्तिपकाहतः क्वणन् ॥
गुणरत्न -८ (सा. ६५३)
"https://sa.wikiquote.org/w/index.php?title=करिघण्टान्यायः&oldid=9082" इत्यस्माद् प्रतिप्राप्तम्