करिबृंहितन्यायः

विकिसूक्तिः तः

बृंहितं नाम गजेन कृतः शब्दः । तदा ‘करि’ इति शब्दप्रयोगस्य आवश्यकता नास्ति परन्तु किमपि विशिष्टं प्रयोजनं द्योतयितुमपि क्वचित् तथा क्रियते । एवं पुनरुक्तवद् भासमानानाम् अपि क्वचित् विशिष्टं प्रयोजनं भवति । समानार्थकन्यायः - गजघण्टान्यायः, नीलेन्दीवरन्यायः, पर्वताधित्यकन्यायः वाजिमन्दुरान्यायः, मश्गवागुरान्यायः पश्यन्तु -विशिष्टवाचकानामपि पदानां सति पृथग्विशेषण वाचकपदसमवधाने विशेष्यमात्रपरतायां करिबृंहितन्यायः प्रवर्तते ॥ (लौकिकन्यासाहस्त्रीतः - रघुनाथः)

"https://sa.wikiquote.org/w/index.php?title=करिबृंहितन्यायः&oldid=9109" इत्यस्माद् प्रतिप्राप्तम्