कलविङ्कघटन्यायः

विकिसूक्तिः तः

एकस्मिन् घटे कलविङ्कपक्षी स्थापितः चेत् यावत्पर्यन्तं सः घटः पिनद्धः तावत्पर्यन्तं सः पक्षी घटस्य अन्तर्भागे एव भवति । यदा घटस्य मुखभागः अनाच्छादितः भवति तदा सः पक्षी उड्डीय गच्छति । तथैव अस्मिन् शरीरे आत्मा बध्दः भवति बन्धकारणं तावत् पुरातनं कर्म । तत् कर्म यदा नष्टं भवति तदा आत्मा शरीरं परित्यज्य लोकान्तरं गच्छति । कर्मबन्धनात् मुक्तो भवति । वेदन्तिनः इव जैना अपि एतस्य न्यायस्य प्रयोगं कृतवन्तः । योगवासिष्ठेऽपि अस्य उल्लेखः वर्तते । कैश्चित् म्लेच्छैरपि कल्पना इयं स्वीकृता ।

कलविङ्कघटन्यायो धर्म इत्यपि तद्विदाम् ।
तथात्मसिद्धे म्लेच्छानां तददेशेषु न दुष्यति ॥ योगवासिष्ठं ९७-१
"https://sa.wikiquote.org/w/index.php?title=कलविङ्कघटन्यायः&oldid=9119" इत्यस्माद् प्रतिप्राप्तम्