कविः

विकिसूक्तिः तः
  • अधीत्य शास्त्रसम्भारं वाड्मयं जनयेत् कविः ।
गृहीत्वा शस्त्रसम्भारं राष्ट्रं रक्षति सैनिकः ॥
    • कालिदासचरितम्, पृ ० १२
  • कविरिह निजकाव्यैर्नित्यमाह्लादवर्षी ।
    • कालिदासचरितम्, पृ ० ८६
  • राजा तु दण्डबलेन शरीरे शासनं करोति किन्तु कविः वाग्बलेन हृदये ।
    • नाट्यसप्तकम्, पृ ० २५
  • कवयो नवाः समयोद्भवा जयिनो मानधन्याः ।
    • कालिदासचरितम्, पृ ० ९३
  • यदि कवयो नाभविष्यन् तर्हि नृपतीनां नामापि कश्चिन्न गृह्णीयात् ।
    • नाट्यसप्तकम्, पृ ० १८४

कविता[सम्पाद्यताम्]

  • ईश्वरदत्तप्रतिभया सम्पन्न एव प्राणि
कविताम् कर्तुम् विचारयितुं च शक्नोति ।
    • नाट्यसप्तकम्, पृ ० २८३


कवित्वम्[सम्पाद्यताम्]

  • कवित्वम् अत्यन्तं दुर्लभं भवति ।
    • नाट्यसप्तकम्, पृ ० १८३
  • कवित्वं नृपत्वादपि वरतरम् ।
    • नाट्यसप्तकम्, पृ ० २८४
"https://sa.wikiquote.org/w/index.php?title=कविः&oldid=6209" इत्यस्माद् प्रतिप्राप्तम्