कश्चित्कान्तान्यायः

विकिसूक्तिः तः

वाक्यखण्डमेव श्रुत्वा, सम्पूर्णं वाक्यम् अश्रुत्वा ऽऽशिपति यदि जनः, स दोषभाक् "कश्चित्कान्तान्यायम्" अनुसरतीत्य् उच्यते।

यथा - " कश्चित् कान्ता-विरहगुरुणा स्वाधिकारात् प्रमत्त: शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तु:। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।।" इति प्रसिद्धं श्लोकम् अश्रुत्वा, "कश्चित् कान्ता" इति वाक्यखण्डस्य श्रवणाद् अनन्तरमेवाक्षिपेत् "कश्चिदिति पुंलिङ्गे ऽस्ति, कान्तेऽति स्त्रीलिङ्गेऽस्ति, तत् कथमिवाबद्धं भणितं महाकविने"ति।

"https://sa.wikiquote.org/w/index.php?title=कश्चित्कान्तान्यायः&oldid=15286" इत्यस्माद् प्रतिप्राप्तम्