कश्चित् धीरः प्रत्यगात्मानमैक्षत्...

विकिसूक्तिः तः

कश्चित् धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुः अमृतत्वम् इच्छन् । - काठकोपनिषत् २-१-१

आवृत्तचक्षुः सन् धीरो मुमुक्षुः अमृतत्वम् इच्छन् आत्मानं पश्यति ।

स्थूलपदार्थग्राहकैः इन्द्रियैः सूक्ष्मम् आत्मानं विज्ञातुं न शक्यते । तर्हि कथमात्मनो विज्ञानम् ?
इन्द्रियाणि विहाय आवृत्तचक्षुः सन् आत्मानं पश्येत् । इन्द्रियाणि प्रत्यङ्मुखानि कृत्वा अत्र चक्षुः
इति नेत्रादीनि इन्द्रियाणि । बहिर्मुखैरिन्द्रियैः प्रत्यगात्मा विज्ञातुं न शक्यते ॥

भवतु, तर्हि का गतिः । अन्तः करणमेव साधकानां गतिः । अन्तः करणं शुद्धं भवेत् । बाह्यविषयेभ्यः
विमुखीकृत्य शुद्धेन मनसा शास्त्राचार्याणाम् उपदेशं शृणुयात् । मुमुक्षुसाधकाः इन्द्रियभोगविरक्ताः सन्तः
शमदम –उपरति- तितिक्षाश्रद्धासमाधानसाधनपराः भवेयुः । विवेकवैराग्यसम्पन्नाः सन्तः सद्गुरूपदेशम्
एकाग्रतया श्रुत्वा मनननिदिध्यासनं कुर्वन्ति चेत् तदा प्रत्यगात्मानं जानन्ति ॥