कस्यौकान्तं सुखमुपनतं...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
कस्यैकान्तं सुखमुपनतं
दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा
चक्रनेमिक्रमेण ॥ - कालिदासस्य मेघदूतः
तात्पर्यम्
जगति कः वा सर्वदा सुखमेव अनुभवेत् ? अथवा कः सदा दुःखी स्यात् ? प्रपञ्चे मनुष्यस्य अवस्था परिभ्रमतः चक्रनेमिवत् कदाचित् उपरि कदाचित् अधः च सञ्चरति। न केवलं व्यक्तेः स्थितिः अपि तु विश्वस्य गतिः अपि चक्रनेमिः इव । जगतः सभ्यताः अपि जननं वृद्धिं क्षयं विनाशञ्च प्राप्नुवन्ति ।