कांस्यभोजनन्यायः

विकिसूक्तिः तः

कांस्यपात्रे भोजनमिति न्यायस्य भावः । कश्चन शिष्यः कदाचित् एकं नियमं कृतवान् – अहं गुरुणा परित्यक्तेन आहारेण मम भोजनं करिष्यामि इति । तदपि कांस्यपात्रे भवतु इति तस्य नियमः । गुरुः शिष्यस्य नियमभङ्गः मा भूत् इति कांस्यपात्रे भोजनम् आरब्धवान् । वस्तुतः नियमः गुरुणा न कृतः तथापि शिष्यस्य कृते कांस्यपात्रे भोजनम् अङ्गीकृतवान् गुरुः । एतेन शिष्यस्य धर्मलोपस्तु न भवेदिति तस्य आशयः । तथा अमुख्यस्यापि ग्रहणं अन्यस्य कृते क्रियते इति बोधयितुम् अयं न्यायः ।

यथा – शिष्यस्य कांस्यपात्रभोजित्वनियमः उपाध्यायस्य न नियमः । यदि तयोरेकस्मिन् पात्रे भोजनमापद्यते अमुख्यस्यापि शिष्यस्य धर्मो नियम्येत मा भूद् धर्मलोप इति । (शाबरभाष्यतः १२-२-

"https://sa.wikiquote.org/w/index.php?title=कांस्यभोजनन्यायः&oldid=9396" इत्यस्माद् प्रतिप्राप्तम्