काकदध्युपघातन्यायः

विकिसूक्तिः तः

कश्चन मनुष्यः केनापि कार्येण बहिः गच्छति स्म अन्यः गृहस्य अन्तरेव वर्तते स्म । “गृहे वर्तमानं” दधि काकेभ्यः रक्ष्यताम्” इति तेन बहिः गच्छता अन्यः कथितः । किञ्चित्कालानन्तरं कश्चन शुनकः आगत्य सर्वमपि दधि खादितवान् । काकेभ्यः एव दधि रक्षणीयम् इति चिन्तयता तेन मन्दमतिना दधिरक्षणस्य महत्त्वं न ज्ञातम् । एवं उपलक्षणम् अज्ञात्वा ये वाच्यार्थमेव आश्रयन्ति तेषां विषये अस्य प्रयोगः क्रियते ।

"https://sa.wikiquote.org/w/index.php?title=काकदध्युपघातन्यायः&oldid=9337" इत्यस्माद् प्रतिप्राप्तम्