काकदन्तगवेषणन्यायः

विकिसूक्तिः तः

काकस्य दन्ताः कति इति गणना व्यर्था एव खलु । तादृशस्य व्यर्थकार्यस्य विषये अस्य प्रयोगः भवति । यथा-

नचिकेता मरणसंबन्धं प्रश्नं प्रेत्यास्तीति नास्तीति ।
काकदन्तपरीक्षारुपं मानुप्राक्षीः मैवं वक्तुमर्हसि ।कठोपनिषदः शाङ्करभाष्ये १-२५
१. तथा- ध्वन्यालोकस्य अभिनवगुप्तव्याख्याने ३-१९
पञ्चपादिकायां पृष्टक्रमः ५३,६८
जयन्तकृतन्यायमञ्जर्याम् पृष्ठक्रमः ७ । अयमेव वायसदन्तन्याय इत्यपि कथ्यते ।
"https://sa.wikiquote.org/w/index.php?title=काकदन्तगवेषणन्यायः&oldid=9185" इत्यस्माद् प्रतिप्राप्तम्