काकपिकन्यायः

विकिसूक्तिः तः

काकः पिकश्च वर्णेन कृष्णौ परन्तु गुणे महान् भेदो भवति । बाह्यं सादृश्यं मोहकं भवति इति द्योतयितुम् अस्य प्रयोगः क्रियते । काकस्य पिकस्य च यथार्थभेदः वसन्तकाले ज्ञायते ।

तुल्यः –काचमणिन्यायः

यथा –काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥

"https://sa.wikiquote.org/w/index.php?title=काकपिकन्यायः&oldid=9345" इत्यस्माद् प्रतिप्राप्तम्