काकाधिकरणन्यायः

विकिसूक्तिः तः

देवदत्तस्य गृहं कुत्र वर्तते इति एकेन पृष्टे सति अन्येन उक्तं यत्र काकाः तिष्ठन्ति तद् देवदत्तस्य गृहम् इति । काकस्य उपवेशनम् इति गृहस्य स्थिरं लक्षणं न भवितुमर्हति । तथा कस्यचिदेव अंशस्य विवरणं कृतमिति बोधयितुमस्य प्रयोगो भवति । तात्कालिकं लक्षणमित्यपि अस्य अर्थः ।

"https://sa.wikiquote.org/w/index.php?title=काकाधिकरणन्यायः&oldid=9377" इत्यस्माद् प्रतिप्राप्तम्