काकोलूकनिशान्यायः

विकिसूक्तिः तः

दिवसे काकः द्रष्टुं शक्नोति परम् उलूकस्य कृते अयमेव समयः रात्रिः भवति यतः उलूकः दिवसे किमपि द्रष्टुं न शक्नोति । द्वयोरपि दर्शनसमयः भिन्नः तत्र कोऽपि किमपि कर्तु न शक्नोति ।

यथा –पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् ।

नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ॥

सृष्टौ एतादृश्यः आश्चर्यकारिण्यः घटनाः बह्वयः सन्ति । अयं न्यायः तादृशघटनाम् आश्रित्य प्रवर्तितः

"https://sa.wikiquote.org/w/index.php?title=काकोलूकनिशान्यायः&oldid=9381" इत्यस्माद् प्रतिप्राप्तम्