काचमणिन्यायः

विकिसूक्तिः तः

काचखण्डस्य मणेश्च सादृश्यम् अस्ति । परन्तु योग्यरीत्या परीक्षा कृता चेत् द्वयोः भेदः स्पष्टो भवति । स्वस्य गुणैः एव स्वस्य श्रेष्ठत्वम् अथवा नीचत्वं निर्धार्यते केवलबाह्यदर्शनं तस्मिन् प्रमाणं नास्ति इति न्यायस्य अस्य भावः ।

यथा- मणिर्लुठति पादेषु काचः शिरसि धार्यते ।

क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥

"https://sa.wikiquote.org/w/index.php?title=काचमणिन्यायः&oldid=9387" इत्यस्माद् प्रतिप्राप्तम्