कामः सङ्कल्पो विचिकित्सा...

विकिसूक्तिः तः

कामः सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिः अधृतिः ह्रीः धीः भीः
इत्येतत् सर्वं मन एव । - बृहदारण्यकोपनिषत् १-५-३

कामः, सङ्कल्पः संशयः, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, ह्रीः, धीः, भयम्- इत्येतत्
सर्वं मन एव ॥

मनो नाम अन्तः करणम् । प्रत्यक्षप्रमाणागोचरं सूक्ष्मं करणं नाम मनः । मनः सूक्ष्मानपि विचारान्
गृह्णाति । मनसैव बन्धनम्, मनसैव च मोक्षः; मनसा एव स्वर्गः, मनसा एव च नरकम्; मनसा एव
सुखम्, मनसा एव दुःखम्; मनसा एव धैर्यम्, मनसा एव भीतिः, मनसा एव जीवनम्, मनसा एव
च मरणम् ॥

अहो, अद्भुतमेतन्मनः ! भवतु, तर्हि किं तन्मनः? इति चेत् । विचार्यते । कामनं कामः, सङ्कल्पविकल्पाः,
संशयः, श्रद्धा, अश्रद्धा, धैर्यम्, अधैर्यम्, ह्रीः, धीः, भयम्, इदं सर्वमपि मन एव । इतराभिश्च शताधिकाभिः
वृत्तिभिः संयुक्तम् एतन्मनः दैवदत्ता अद्भुता सम्पत् । अस्य मनसः विवेकपूर्वकम् उपयोगेन मानवाः सर्वे कृतार्था
भवेयुः आत्मोद्धारं च कुर्युः ॥