कामान् यः कामयते...
कामान् यः कामयते मन्यमानः स कामभिः जायते तत्र तत्र । - मुण्डकोपनिषत् ३-२-२
यः मानवः कामानेव चिन्तयन् कामानेव सदा कामयते, सः अविवेकी मरणानन्तर तैस्तैः कामभिः,
कामैः जायते ।
कामितया जीवन् कामी पुनः कामी एव जायेत । कामशब्दस्य ‘काम्यन्ते इति कामाः’ इति काम्यपदार्थाः,
‘कामनं कामः’ इति इच्छा च – अर्थो भवति । अविद्यानिमित्तः कामो भवति । अविद्यावतो हि अनात्मविषयाः
कामाः भवन्ति । कामैः कर्माणि, कर्मभ्यः जन्मप्राप्तिः, ततः सुखदुःखसंसारः सन्ततो भवति ॥
आत्मस्वरूपम् अजानतः अज्ञानिनः सदा अनात्मचिन्तनम्, वित्रयाभिध्यानं च । शब्दस्पर्शरूपरसगन्धविषयचिन्तनमेव
अज्ञस्य कर्म । अयमेव कामो नाम । अस्मिन् कामे सति तावतैव अलम् । तेन सर्वानर्थप्राप्तिः । ‘विषयाभिध्यानं
सर्वानर्थमूलम्’ इति श्रीशंकरभगवत्पादानां सन्देशः गीताभाष्ये । कामचिन्तकस्य काममयस्य, कामारामस्य,
कामकामस्य, कामात्मनः कामान् विहाय अर्थान्तरचिन्तनं नास्त्येव । कामिनः कामा एव गतिः ॥