कालः स्वभावो नियतिर्यदृच्छा...
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या । संयोग एषां न त्वात्मभावात्
आत्माप्यनीशः सुखदुःखहेतोः ॥ - श्वेताश्वतरोपनिषत् १-२
अस्य विश्वस्य कारणं किं कालः ? स्वभावो वा ? नियतिर्वा ? जीवात्मा वा ? अथवा एतेषां समूहो वा ?
इति ज्ञानिनः विचारं कुर्वन्ति । स्वयं सुखदुःखभोक्ता दीनः जीवात्मा तु नास्य जगतः कारणं भवेत् ॥
अनेके महर्षयः अन्योन्यं मिलित्वा एवं सन्तोषेण विचारं कुर्वन्ति । इमं प्रपञ्चं दृष्ट्वा यस्य कस्यापि आश्चर्यं
भवति, अद्भुतमेव इदं विश्वं नाम । अस्य विशालस्य जगतः केनापि कारणेन भाव्यमेव । अतः किं तत् कारणं
स्यात् ? इति ते दीर्घम् आलोचयन्ति । केवलं तर्कबलेन बुद्धिसामर्थ्येन यथाकथञ्चित् लघुतया न विचारचिन्तनमेतत् ।
किं तु श्रुतियुक्तिअनुभवानां समन्वयेन निर्णेयः महान् विचारक्रमोऽयम् । सुखदुःखरूपे संसारसागरे स्वयं निमग्नः
जीवस्तु नास्य संसारस्य कारणं भवेत् । तर्हिं किं कारणं स्यात् ? इति हि महर्षीणां विचारस्य विषयः ॥