कालचक्रम्

विकिसूक्तिः तः
  • कालो निर्माति चित्रपटीम् ।
    • श्रीरामचरितम्, पृ ० ३४


  • फुल्लाति मधुनिपलाशो नृत्यति वर्षासु बर्हिणो भूयः ।
कूजति शरदि मरालः काले सर्वं गुनाम् धत्ते ।
    • यज्ञफलम्, IV, ३४


  • कालाधीनं हि सर्वं लॊके भवति ।
    • श्रीकृष्णचन्द्राब्युदयम्, पृ ० ५३


  • कालस्तावद् विधिनियमितः सर्वकार्येऽस्तिलोके ।
नैनं मर्त्यः प्रभवति महानप्यणुं लङ्घनाय ॥
    • कमलिनीकलहंसम्, IV. ६


  • क्षिप्रमक्रियमणस्य कालः पिबति तद्रसम् ।
    • श्रीकृष्णचन्द्राभ्युदयम्, पृ ० ५७


  • स्वल्प एव कालः ।
    • अनार्कली, पृ ० ४४


कालचक्रम्[सम्पाद्यताम्]

  • कालचक्रपरवशा हि सर्वॆ प्राणिनः ।
    • छत्रपतिसाम्राज्यम्, पृ ० १२१

कालपाशः[सम्पाद्यताम्]

  • कर्कशं खलु कालपाशम् ।
    • सुभद्राधनञ्जयम्, III. १२
"https://sa.wikiquote.org/w/index.php?title=कालचक्रम्&oldid=6245" इत्यस्माद् प्रतिप्राप्तम्