सामग्री पर जाएँ

कालिदासः जने जने...

विकिसूक्तिः तः

कालिदासः जने जने...


कालिदासो जने जने
कण्ठे कण्ठे संस्कृतम् ॥

ग्रामे ग्रामे नगरे नगरे
गेहे गेहे संस्कृतम् ॥

मुनिजनवाणी कविजनवाणी
प्रियजनवाणी संस्कृतम् ॥

सरला भाषा मधुरा भाषा
दिव्या भाषा संस्कृतम् ॥

मुनिजनवाञ्छा कविजनवाञ्छा
बुधजनवाञ्छा संस्कृतम् ॥

गमनागमने कार्यक्षेत्रे
वार्तालापे संस्कृतम् ॥

जने जने रामायणचरितं
प्रियजनभाषा संस्कृतम् ॥

स्थाने स्थाने भारतदेशे
सदने सदने संस्कृतम् ॥


- डा रमेशपाण्डे (म प्र्)


"https://sa.wikiquote.org/w/index.php?title=कालिदासः_जने_जने...&oldid=18352" इत्यस्माद् प्रतिप्राप्तम्