कालिदाससूक्तयः (अभिज्ञानशाकुन्तलम्)

विकिसूक्तिः तः

शकुन्तला[सम्पाद्यताम्]

१. इदं किलाव्याजमनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।

ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ शाकुन्तल १।१८॥

२. इदुमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे

स्तनयुगपरिणाहाऽऽच्छादिना वल्कलेन ।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ॥ शाकुन्तल १।१९॥

३. सरसिजमनुविद्धं शैवलेनापि रम्यम्,

मलिनमपि हिमांशोर्लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी,
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शाकुन्तल १।२०॥

४. कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपम्,

न मनसि रुचिमङ्गं स्वल्पमप्यादधाति ।
विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठम्,
निजमिव कमलिन्याः कर्कशं वृन्तजालम् ॥ शाकुन्तल १।२१॥

५. अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।

कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥ शाकुन्तल १।२२॥

६. यतो यतः षट्चरणोऽभिवर्तते ततस्ततः प्रेरितवामलोचना ।

विवर्त्तितभ्रूरियमद्य शिक्षते भयादकामाऽपि हि दृष्टिविभ्रमम् ॥ शाकुन्तल १।२४॥

७. चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं,

रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वन्त्याः पिबसि रतिसर्वस्वमधरम्,
वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृती ॥ शाकुन्तल १।२५॥

८. लोलां दृष्टिमितस्तो वितनुते सभ्रूलताविभ्रमा-

माभुग्नेन विवर्त्तिता वलिमता मध्येन कम्रस्तनी ।
हस्ताग्रं विधुनोति पल्लवनिभं शीत्कारभिन्नाधरा
जातेयं भ्रमराभिलङ्घनभिया वाद्यैर्विना नर्त्तकी ॥ शाकुन्तल १।२६॥

९. मानुषीषु कथं स्यादस्य रूपस्य सम्भवः ।

न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ शाकुन्तल १।२८॥

१०. स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-

दद्यापि स्तनवेपथं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधिवदने घर्माम्भसां जालकम्,
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ शाकुन्तल १।३२॥

११. वाचं न मिश्रयति यद्यपि मद्वचोभिः,

कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसम्मुखीना,
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ शाकुन्तल १।३३॥

१२. सुरयुवतिसम्भवं किल मुनरेपत्यं तदुज्झिताधिगतम् ।

अर्कस्योपरि शिथिलं च्युतमिव नवमालिका कुसुमम् ॥ शाकुन्तल २।८॥

१३. चित्ते निवेश्य परिकल्पितसर्वयोगात्,

रूपोच्चयेन विधिना विहिता कृशाङ्गी ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे,
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ शाकुन्तल २।९॥

१४. अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-

रनाविद्धं रंत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघम्,
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ शाकुन्तल २।१०॥

१५. अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।

विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ शाकुन्तल २।११॥

१६. दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे,

तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती,
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ शाकुन्तल २।१२॥

१७. क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनम्,

मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते,
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ शाकुन्तल ३।८॥

१८. तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रिमपि ।

निर्घृण! तपसि बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥ शाकुन्तल ३।१४॥

१९. सन्दष्टकुसुमशयनान्याशुक्लान्तबिसभाङ्गसुरभीणि ।

गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ शाकुन्तल ३।१६॥

२०. का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।

मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ शाकुन्तल ५।१३॥

२१. त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।

समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ शाकुन्तल ५।१५॥

२२. इदमुपनतमेवं रूपमक्लिष्टकान्ति,

प्रथमपरिगृहीतं स्यान्न वेत्यध्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥ शाकुन्तल ५।१९॥

२३. आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।

परातिसन्धानमधीयते यौर्विद्येति ते सन्तु किलाप्तवाचः ॥ शाकुन्तल ५।२५॥

२४. वसने परिधूसरे वसाना नियमक्षामुखी धृतैकवेणिः ।

अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ शाकुन्तल ७।२१॥

शकुन्तलायाः प्रस्थानम्[सम्पाद्यताम्]

१. यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया,

कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः,
पीड्यन्ते गृहिणः कथं नु तनया विश्लेषदुः खैर्नवैः ॥ शा० ४।६॥

२. पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या,

नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आदौ वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः,
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ शा० ४।९॥

३. उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः ।

अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ शा० ४।१२॥

४. यस्य त्वया व्रणविरोपणमिङ्गुदीनां,

तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति,
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ शाकुन्तल ४।१४॥

५. उत्पक्ष्मणोत् नयनयोपरुद्धवृत्तिम्,

वाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे,
मार्गे पदानि खलु ते विषमीभवन्ति ॥ शा० ४।१५॥

६. अस्मान्साधु विचिन्त्य संयमधनान्नुच्चैः कुलं चात्मन-

स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया,
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ शा० ४।१७॥

७. शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपन्तीजने,

पत्युर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी,
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ शा० ४।१८॥

८. अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे,

विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात् प्राचीवार्कं प्रसूय च पावनम्,
मम विरहजां न त्वं वत्से! शुचं गणयिष्यसि ॥ शाकुन्तल ४।१९॥

९. भूत्वा चिराय चतुरन्तमहीसपत्नी,

दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धम्,
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ शा० ४।२०॥

१०. शममेष्यति मम शोकः कथं नु वत्से! त्वया रचितपूर्वम् ।

उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ शा० ४।२१॥

११. अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।

जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ शा० ४।२२॥

१२. आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।

आशीरन्या न ते योग्या पौलोमी सदृशी भव ॥ शा० ७।२८॥

१३. दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।

श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ शा० ७।२९॥

भरतः[सम्पाद्यताम्]

१. अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।

प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ।

२. महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।

स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ शा०७।१५॥

३. प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।

अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ शा० ७।१६॥

४. आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।

अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनी भवन्ति ॥ शा० ७।१७॥

५. अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।

कां निर्वृत्तिं चेतसि तस्य कुर्याद्यस्यायमङ्कत्कृतिनः प्रसूढः ॥ शा०७।१९॥

६. रथेनानुद्घातस्तिमितगतिना तीर्णजलधिः,

पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः,
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ शा० ७।३३॥