सामग्री पर जाएँ

कालिदाससूक्तयः (रघुवंशम्)

विकिसूक्तिः तः

१. सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।

आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ रघु०१।५॥

२. यथाविधिहुताग्निनां यथाकामर्चितार्थिनाम् ।

यथाऽपराधदण्डानां यथाकालप्रबोधिनाम् ॥ रघु० १।६॥

३. त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् ।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ रघु० १।७॥

४. शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।

वार्धक्ये मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघु० १।८॥

५. अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ रघु० ११।२॥

६. सौभ्रात्रमेषां हि कुलानुसारि ॥ रघु० १६।१॥

७. अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः ॥ रघु० १६।२॥

८. वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्तिः ॥ रघु० १६।८॥

९. न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ रघु० २।४॥

१०. तितीर्षुदुस्तरं मोहादुडुपेनास्मि सागरम् ॥ रघु० १।२॥

आदर्शः राजा

[सम्पाद्यताम्]

१. प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।

सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ रघु० १।१८॥

२. शास्त्रेष्वकुण्ठिता बुद्धिर्मौवीं धनुषि चातता ॥ रघु० १।१९॥

३. जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।

अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥ रघु० १।२१॥

४. ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ॥ रघु० १।२२॥

५. प्रजानां विनयाधानाद्रक्षणाद् भरणादपि ।

स पिता पितरस्तासां केवलं जन्महेतवः ॥ रघु० १।२४॥

६. राजा प्रकृतिरञ्जनात् ॥ रघु० ४।१२॥

७. न खरो न च भूयसा मृदुः पवमानण् पृथिवीरुहानिव ।

स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ रघु० ८।९॥

८. जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।

क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसी पार्थिवे ॥ रघु० ९।४॥

९. न मृगयाभिरातिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।

तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ रघु० ९।७॥

१०. न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।

न च सपत्नजनेष्वपि तेन वागपुरुषा परुषाक्षरमीरिता ॥ रघु० ९।८॥

११. श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥ रघु० ९।१५॥

१२. वापीष्विव स्रवन्तीषु वनेषुपवनेष्विव ।

सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥ रघु० १७।६४॥

१३. तपो रक्षन् स विध्नेभ्यस्तस्करेभ्यश्च सम्पदः ।

यथास्वमाश्रमैश्चक्रे वर्णैरपि षडंशभाक् ॥ रघु० १७।६५॥

१४. यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम् ।

वातोऽपि नास्रंसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ॥ रघु० ६।७५॥

१. दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ रघु० १।६०॥

२. तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः ॥ रघु० १।६१॥

३. हविरावर्जितं होतस्त्वया विधिवदग्निषु ।

वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥ रघु० १।६२॥

४. पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।

यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ रघु० १।६३॥

५. त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।

सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ रघु० १।६४॥

६. इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ रघु० १।७२॥

१. इति वादिन एवास्य होतुराहुतिसाधनम् ।

अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ रघु० १।८२॥

२. ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।

बिभ्रति श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥ रघु० १।८३॥

३. भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।

प्रस्रवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ रघु० १।८४॥

४. रजः कणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् ।

तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ रघु० १।८५॥

५. अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।

उपस्थितेयं कल्याणी नाम्नी कीर्तित एव यत् ॥ रघु० १।८७॥

६. वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।

विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघु० १।८८॥

७. प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः ।

निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः ॥ रघु० १।८९॥

८. अथ प्रजानमधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।

वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ रघु० २।१॥

९. तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।

मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघु० २।२॥

१०. आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।

आव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ रघु० २।५॥

११. स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।

जलाभिलाषि जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ रघु० २।६॥

१२. पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।

तदन्तरे सा विरराज धेनुर्दिनक्षपा मध्यगतेव सन्ध्या ॥ रघु० २।२०॥

सिंह-दिलीपयोः संवादः

[सम्पाद्यताम्]

१. अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।

न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ रघु० २।३४॥

२. कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।

अवेहि मां किङ्करमष्टमूर्ते कुम्भोदरं नाम निकुम्भमित्रम् ॥ रघु० २।३५॥

३. अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।

यो हेमकुम्भस्तननिः सृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ रघु० २।३६॥

४. कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।

अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ रघु० २।३७॥

५. तदा प्रभृत्येव वनद्विपानां त्रासार्थमस्मिन् हिमाद्रिकुक्षौ ।

व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागरसत्त्ववृत्तिः ॥ रघु० २।३८॥

६. तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।

उपस्थिता शोणितपारणा मे सुरद्विषचान्द्रमसी सुधेव ॥ रघु० २।३९ ॥

७. स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यभक्तिः ।

शस्त्रेण रक्ष्यं यदशक्यरक्ष्यं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघु० २।४०॥

८. संरुद्धचेष्टस्य मृगेन्द्र! कामं हास्यं वचस्तद्यदहं विवक्षुः ।

अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावमतोऽभिधास्ये ॥ रघु० २।४३॥

९. मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।

गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ रघु० २।४४॥

१०. स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।

दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ रघु० २।४५॥

११. एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।

अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥ रघु० २।४७॥

१२. भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते ।

जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ रघु० २।४८॥

१३. अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि ।

शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्निः ॥ रघु० २।४९॥

१४. तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् ।

महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघु० २।५०॥

१५. निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।

धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ रघु० २।५२॥

१६. क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।

राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ रघु० २।५३॥

१७. कथं न शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् ।

इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ रघु० २।५४॥

१८. सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।

न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ रघु० २।५५॥

१९. भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ ।

स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघु० २।५६॥

२०. किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।

एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ रघु० २।५७॥

२१. सम्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते ।

तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो प्रणयं विहन्तुम् ॥ रघु० २।५८॥

२२. तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भविमुक्तबाहुः ।

स न्यस्तशास्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ रघु० २।५९॥

२३. तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् ।

अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ रघु० २।६०॥

२४. उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।

ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ रघु० २।६१॥

२५. तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ।

ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ रघु० २।६२॥

२६. भक्त्या गुरौ मय्यनुकम्पया च प्रीताऽस्मि ते पुत्र वरं वृणीष्व ।

न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥ रघु० २।६३॥

२७. ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।

वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ रघु० २।६४॥

२८. सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।

दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥ रघु०२।६५॥

२९. वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः ।

औधस्यमिच्छमि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ रघु० २।६६॥

३०. इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।

तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ रघु० २।६७॥

इन्दुमती-स्वयंवरः

[सम्पाद्यताम्]

१. सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ रघु० ६।६७॥

२. तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी ।

न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥ रघु० ६।६९॥

३. कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।

त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ रघु० ६।७९॥

४. ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।

दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ रघु० ६।८०॥

५. सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।

रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमादरालकेश्याः ॥ रघु०६।८१॥

६. तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।

आर्ये! व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ रघु०६।८२॥

७. तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः ।

अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ रघु० ६।८४॥

८. शशिनमुपगतेयं कौमुदी मेघमुक्तम्-

जलनिधिमनुरूपं जह्नुकन्याऽवतीर्णा ।
इति समगुणयोगप्रीतयस्तत्रपौराः
श्रवणकटुनृपाणामेकवाक्यं विवव्रुः ॥ रघु० ६।८५॥

९. रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला ।

गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसङ्गतिज्ञम् ॥ रघु० ७।१५॥
अज-विलाप और वसिष्ठ-सन्देश

१. विललाप स वाष्पगद्गदं सहजामप्यपहाय धीरताम् ।

अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ रघु० ८।४३॥

२. कुसुमान्यपि गात्रसङ्गमात्प्रभवन्त्यायुरपोहितुं यदि ।

न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ रघु० ८।४४॥

३. अथवा मृदुवस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।

हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ रघु० ८।४५॥

४. स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति माम् ।

विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥ रघु० ८।४६॥

५. अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।

यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ रघु० ८।४७॥

६. मनसाऽपि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।

ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ रघु० ८।५२॥

७. शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं परत्रिणम् ।

इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः ॥ रघु०८।५६॥

८. नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।

तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहिणम् ॥ रघु० ८।५७॥

९. कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम् ।

पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः ॥ रघु०८।५९॥

१०. समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः ।

अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ॥ रघु० ८।६५॥

११. धृतिरस्तमिता रतिश्च्युता विरतं गेयमृतुर्निरुत्सवः ।

गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ रघु० ८।६६॥

१२. गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।

करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥ रघु० ८।६७॥

१३. विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।

अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ रघु० ८।६९॥

१४. विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।

अकरोत्पृथिवीरुहानपि स्रुतशाखारसवाष्पदूषितान् ॥ रघु० ८।७०॥

१५. प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।

न चकार शरीरमग्निसात् सहदेव्या न तु जीविताशया ॥ रघु० ८।७२॥

१६. अथ तं सवनाय दीक्षितः प्रणिधानाद् गुरुराश्रमस्थितः ।

अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ रघु० ८।७५॥

१७. तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।

वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ रघु० ८।८३॥

१८. उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।

मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ रघु० ८।८४॥

१९. रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।

परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ रघु० ८।८५॥

२०. मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।

क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ रघु० ८।८७॥

२१. स्वजनाश्रु किलातिसन्ततं दहति प्रेतमिति प्रचक्षते ॥ रघु० ८।८६॥

२२. अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।

स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ रघु० ८।८८॥

२३. स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।

विरहः किमिवानुतापयेद्वद बाह्यौर्विषयैर्विपश्चितम् ॥ रघु० ८।८९॥

२४. न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि ।

द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ रघु० ८।९०॥

२५. स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।

तदलब्धपदं हृदि शोकधने प्रतियातमिवान्तिकमस्य गुरोः ॥ रघु० ८।९१॥

श्रीरामः

[सम्पाद्यताम्]

१. राम इत्यभिरामेण वपुषा तस्य चोदितः ।

नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ रघु० १०।६७॥

२. पित्रा दत्तां रुदन् रामः प्राङ्महीं प्रत्यपद्यत ।

पश्चाद् वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ रघु० १२।७॥

३. दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।

ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः ॥ रघु० १२।८॥

१. क्लेशावहा भर्तुरलक्षणाऽहं सीतेति नाम स्वमुदीरयन्ती ।

स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे ॥ रघु० १४।५॥

२. उत्तिष्ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्त्ता शुचिना तवैव ।

कृच्छ्रं महत्तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या ॥ रघु० १४।६॥

३. बभूव रामः सहसा सवाष्पस्तुषारवर्षीव सहस्यचन्द्रः ।

कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥ रघु० १४।८४॥

४. श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।

अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्यमयी ॥ रघु० १५।६१॥

सीतापरित्यागः:

[सम्पाद्यताम्]

१. निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् ।

अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः ॥ रघु० १४।३२॥

२. कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण ।

अयोघनेनाय इवाइतप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥ रघु० १४।३३॥

३. किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि ।

इत्येकपक्षाश्रयविक्लवत्वादासीत् स दोलाचलचित्तवृत्तिः ॥ रघु० १४।३४॥

४. निश्चित्य चानन्यनिवृत्तिवाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् ।

अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ रघु० १४।३५॥

५. राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् ।

मत्तः सदाचारशुचेः कलङ्कः पयोदवारादिव दर्पणस्य ॥ रघु०१४।३७॥

६. पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् ।

सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ रघु० १४।३८॥

७. तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।

त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुराज्ञयेव ॥ रघु० १४।३९॥

८. अवैमि चैनामनघेति किन्तु लोकापवादो बलवान्मतो मे ।

छाया हि भुमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥ रघु० १४।४०॥

९. इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् ।

न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥ रघु० १४।४३॥

१०. प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव ।

स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ रघु० १४।४५॥

११. स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् ।

प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरुणां ह्यविचारणीया ॥ रघु० १४।४६॥

१२. सा नीयमाना रुचिरान्प्रदेशान्प्रियङ्करो मे प्रिय इत्यनन्दत् ।

नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ रघु० १४।४८॥

१३. अथ व्यवस्थापितवाक्कथञ्चित्सौमित्रिरन्तर्गतवाष्पकण्ठः ।

औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥ रघु० १४।५३॥

१४. ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना ।

स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥ रघु० १४।५४॥

१५. न चावदद् भर्तुरवर्णमार्या निराकरिष्णो वृजिनादुतेऽपि ।

आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥ रघु० १४।५७॥

१६. आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः ।

निघ्नस्य मे भार्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव नम्रः ॥ रघु० १४।५८॥

१७. सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽस्मि ते सौम्य! चिराय जीव ।

बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ रघु० १४।५९॥

१८. वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।

मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥ रघु० १४।६१॥

१९. कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः ।

ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥ रघु० १४।६२॥

२०. किं वा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् ।

स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥ रघु० १४।६५॥

२१. साऽहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये ।

भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ रघु० १४।६६॥

२२. नृपस्य वर्णाश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः ।

निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया ॥ रघु० १४।६७॥

२३. तथेति तस्याः प्रतिगृह्य वाचं राजानुजे दृष्टिपथं व्यतीते ।

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ रघु० १४।६८॥

२४. नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः ।

तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ रघु० १४।६९॥

२५. तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः ।

निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य श्लोकः ॥ रघु० १४।७०॥

२६. तमश्रु नेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे ।

तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान् सुपुत्राशिषमित्युवाच ॥ रघु० १४।७१॥

२७. जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा ।

तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतम् ॥ रघु० १४।७२॥

२८. उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।

त्वां प्रत्यकस्मात् कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥ रघु० १४।७३॥

२९. धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनसि ममानुकम्पया ॥ रघु० १४।७४॥

सीतास्मारकम्

[सम्पाद्यताम्]

१. स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।

कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम् ॥ रघु० १५।७१॥

२. तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।

दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ रघु० १५।७२॥

३. ताः स्वचातित्रमुद्दिश्य प्रत्यायतु मैथिली ।

ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥ रघु०१५।७३॥

४. इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।

शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ रघु० १५।७४॥

५. अन्येद्युरथ काकुत्स्थः सन्निपात्य पुरौकसः ।

कविमाह्वययामास प्रस्तुतप्रतिपत्तये ॥ रघु० १५।७४॥

६. स्वसंस्कारवत्याऽसौ पुत्राभ्यामथ सीतया ।

ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ रघु० १५।७४॥

७. काषायपरिवीतेन स्वपदार्पितचक्षुषा ।

अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ रघु० १५।७७॥

८. तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।

कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥ रघु० १५।७९॥

९. अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।

आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ रघु० १५।८०॥

१०. वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे ।

तथा विश्वम्भरे देवि! मामन्तर्धातुमर्हसि ॥ रघु०१५।८१॥

११. एवमुक्ते तया साध्व्यातन्ध्रात्सद्योभवाद् भुवः ।

शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ रघु० १५।८२॥

१२. तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी ।

समुद्ररशना साक्षात्प्रदुरासीद् वसुन्धरा ॥ रघु० १५।८३॥

१३. सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् ।

मा मेति व्यवहरत्येव तस्मिन् पातालमभ्यगात् ॥ रघु० १५।८४॥