कालिदाससूक्तयः (विक्रमोर्वशीयम्)

विकिसूक्तिः तः

उर्वशी[सम्पाद्यताम्]

१. अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः,

श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो,
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ विक्रम० १। १०॥

२. आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।

उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ विक्रम० २ ।३॥

३. सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी,

स्थिरयौवना तनुशरीरा हंसगतिः ।
गगनोज्ज्वलकानने मृगलोचना भ्रमन्ती,
दृष्टा त्वया तर्हि विरहसमुद्रान्तरादुत्तारय माम् ॥विक्रम०४।५९॥

पुरुरवस्य विलापः[सम्पाद्यताम्]

१. पद्भ्यां स्पृशेद् वसुमतीं यदि सा सुगात्री,

मेधाभिवृष्टसिकतासु वनस्थलीषु ।
पश्चान्नता गुरुनितम्बतया ततोऽस्या,
दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥ विक्रम० ४। १६॥

२. बर्हिण परमित्यभ्यर्थये आचक्ष्व मे तत्,

अत्रवने भ्रमता यदि त्वया दृष्टा सा मम कान्ता ।
निशामय मृगाङ्कसदृशवदना हंसगतिरनेन,
चिह्नेन ज्ञास्याख्यातं तव मया ॥ विक्रम० ४।२०॥

३. नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन्वनिता त्वया ।

दीर्घापाङ्गा सितापाङ्गदृष्टा दृष्टिक्षमा भवेत् ॥ विक्रम० ४।२१॥

४. परभृते ! मधुरप्रलापिनि कान्ते नन्दनवने स्वच्छन्दं भ्रमन्ती ।

यदि त्वया प्रियतमा सा मम दृष्टा तर्ह्याचक्ष्व मे परपुष्टे ॥ विक्रम० ४।२४॥

५. त्वां कामिनो मदनदूतिमुदाहरन्ति,

मानावभङ्गनिपुणं त्वममोघमस्त्रम् ।
तामानय प्रियतमां मम वा समीपम्,
मां वा नयाशु कलभाषिणी यत्र कान्ता ॥ विक्रम० ४। २५॥

६. पश्चात्सरः प्रतिगमिष्यसि मानसं तत् ,

पायेयमुत्सृज बिसं ग्रहणाय भूयः ।
मां तावदुद्धर शुचो दयिताप्रवृत्त्या,
स्वार्थात्सतां गुरुतरा प्रणयिक्रियैव ॥ विक्रम० ४। ३१॥

७. रे ! रे ! हंस ! किं गोप्यते गत्यनुसारेणा मया लक्ष्यते ।

केन तव शिक्षिता एषा गतिर्लालसा सा त्वया दृष्टा जघनभरालसा ॥ विक्रम० ४। ३२॥

८. यदि हंस गता न ते नतभ्रूः सरसो रोधसि दर्शनं प्रिया मे ।

मदखेलपदं कथं नु तस्याः सकलं चोरगतं त्वया गृहीतम् ॥ विक्रम० ४। ३३॥

९. रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया ।

अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ विक्रम० ४/ ३७॥

१०. मधुकर ! मदिराक्ष्याः शंस तस्याः प्रवृत्तिम्,

वरतनुरथवासौ नैव दृष्टा त्वया मे ।
यदिसुरभिमवाप्स्यस्तन्मुखोच्छवासगन्धम्
तव रतिरभविष्यत्पण्डरीके किमस्मिन् ॥ विक्रम० ४/४२॥

११. अहं पृच्छामि आचक्ष्व गजवर ! ललितप्रहारेण नाशिततरुवर ।

दूरविनिर्जितशशधरकान्तिर्दृष्टा प्रिया त्वया सम्मुखं यान्ती ॥ विक्रम० ४। ४५॥

१२. मदकलयुवतिशशिकला गजयूथप ! यूथिकाशबलकेशी ।

स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ विक्रम० ४। ४६॥

१३. अपि वनान्तरमल्पकुचान्तरा श्रयति पर्वतपर्वसु सन्नता ।

इदमनङ्गपरिग्रहमङ्गना पृथुनितम्ब नितम्बवती तव ॥ विक्रम० ४। ४९॥

१४. स्फटिकशिलातलनिर्मलनिर्झर ! बहुविधकुसुमैर्विरचितशेखर ।

किन्नरमधुरोद्गीतमनोहर दर्शय मम प्रियतमां महीधर ॥ विक्रम० ४। ५०॥

१५. सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी,

स्थिरयौवना तनुशरीरा हंसगतिः ।
गगनोज्ज्वलकानने मृगलोचना भ्रमन्ती दृष्टा त्वया,
तर्हि विरहसमुद्रान्तरादुत्तारय माम् ॥ विक्रम० ४। ५९॥

१६. समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।

अतो विनिद्रे सहसाविलोचने करोमि न स्पर्शविभावितप्रियः ॥ विक्रम० ४। ७०॥

१७. मयूरः परभृता हंसो रथाङ्गः अलिर्गजः पर्वतः सरित्कुरङ्गमः ।

तव कारणेनारण्ये भ्रमता को न खलु पृष्टो मया रुदता ॥ विक्रम० ४। ७२॥