काशकुशावलम्बनन्यायः

विकिसूक्तिः तः

जले प्लवनसमये निमज्जनभीत्या मनुष्यः कोऽपि आधारः लभ्यते वेति आतुरो भवति । सः आधारः काशकुशसदश्शः ;अघुरुपो वा भवतु तस्य आधारेण प्रवाहात् बहिः आगन्तुं सः मनुष्यः प्रयत्नं करोति । तथा अल्पस्यापि साहाय्येन महत् कार्य सम्पादयितुं क्रियमाणं निष्फलं प्रयासं द्योतयति अयं न्यायः ।

पश्यन्तु- १. सर्वदर्शनसंग्रहे आर्हतदर्शने २१ पृष्ठे

2. नैष्कर्म्यसिद्धौ १-७६, ३. तन्त्रवार्तिके १-३-८

"https://sa.wikiquote.org/w/index.php?title=काशकुशावलम्बनन्यायः&oldid=9394" इत्यस्माद् प्रतिप्राप्तम्