किमिच्छति नरः काश्यां ?...

विकिसूक्तिः तः
Jump to navigation Jump to search

किमिच्छति नरः काश्यां ? भूपानां को रणे हितः ?
को वन्द्यः सर्वदेवानां ? दीयतामेकमुत्तरम् ॥

मानवः काश्यां किं प्राप्तुम् इच्छति ? राज्ञां युद्धे किं हिताय भवति ? सर्वेषां देवानां वन्द्यः कः ? प्रश्नत्रयस्य अपि एकम् उत्तरं वदतु ।

उत्तरम्

मृत्युञ्जयः