कुण्डधारोपास्तिन्यायः

विकिसूक्तिः तः

कश्चन मनुष्यः कुण्डधारनामकस्य कस्यचिद् यक्षस्य सेवां कृतवान् । एकदा सः ‘मह्यं’ कञ्चन श्रेष्ठं वरं देहि’ इति यक्षं प्रार्थितवान् । वस्तुतः सः यक्षः वरं दातुं समर्थः एव नासीत् । परन्तु स्वभक्तस्य प्रार्थनामनुसरन् सः स्वयम् एकस्य दैवतस्य प्रार्थनां कृत्वा ततः स्वभक्ताय वरं दापितवान् । स्वतः अशक्ताः चेदपि सज्जनाः अन्येषाम् उपकाराय यतन्ते इति अस्मात् न्यायाद् बोध्यते ।