कुमारीकङ्कणन्यायः

विकिसूक्तिः तः

एकदा विवाहार्थ काञ्चन कन्यां द्र्ष्टुं केचन तस्याः गृहम् आगताः । तदा सा कन्या स्वगृहे धान्यं नास्ति इति ज्ञातवती । तथापि सा केषाञ्चन धान्यकणानां कुट्ट्नं कृत्वा पिष्टखाद्यं संपादयितुं निश्चितवती । परन्तु कुट्टनध्वनिः शृतश्चेत बहिः वर्तमानाः जनाः किं चिन्तयेयुः इति सा शनैः हस्तगतानि कङ्कणानि निष्कास्य स्थापितवती । अन्ते तस्याः प्रत्येकस्मिन् करे एकम् एव कङ्कणम् अवशिष्टम् आसीत् । अयमाशयः यत् अनेकेषां कङ्कणानां कारणेन महान् ध्वनिः (क्वणनं) भवति । एकेन कङ्कणेन ध्वनिर्न जायते ।

तथा एक एव भवति चेत् शान्तो भवतीति अस्य न्यायस्य भावः ।

"https://sa.wikiquote.org/w/index.php?title=कुमारीकङ्कणन्यायः&oldid=9407" इत्यस्माद् प्रतिप्राप्तम्