कुमारीकङ्कणान्यायः

विकिसूक्तिः तः

सामान्यतः मनुष्यः अनेकैः सह संभन्धं स्थापयितुम् इच्छति परन्तु तस्य केनापि सह उत्तमसंबन्धः न भवति । शनैः शनैः तस्य कलहः भवति । अतः अन्ते सः एकाकी वासं कर्तुम् इच्छति । कन्यायाः हस्ते एकं कङ्कणं भवति चेत् तस्य कङ्कणस्य ध्वनिरेव न भवति । तथा एकः एव भवति चेत् कलह एव न भवति इति द्योतयितुं न्यायस्य अस्य प्रयोगः भवति । बहूनां कलहो नित्यं द्वाभ्यां संघर्षणं तथा ।

एकाकी विचरिष्यामि कुमारीकङ्कणं

यथा ॥ (भागवते)

"https://sa.wikiquote.org/w/index.php?title=कुमारीकङ्कणान्यायः&oldid=9411" इत्यस्माद् प्रतिप्राप्तम्