कुम्भदीपिकान्यायः

विकिसूक्तिः तः

कुम्भे स्थापितस्य दीपस्य ज्ञानं बहिः न जायते । तथापि सः दीपः कुम्भस्य अन्तः प्रकाशमान एव भवति । एवं तेजस्वी स्वाभिमानी वा पुरुषः बहिः न प्रकाशते चेदपि अन्तः प्रकाशमान एव भवतीति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=कुम्भदीपिकान्यायः&oldid=9413" इत्यस्माद् प्रतिप्राप्तम्