कुम्भीधान्यन्यायः

विकिसूक्तिः तः

‘कुम्भी’ इति एकः पात्रविशेषः यस्मिन् धान्यं सुरक्षितं स्थाप्यते । ‘कुम्भी-पात्रे’ धान्यं स्थापयते ब्राह्मणाय इमां गां ददातु’ इति निर्दिष्टं चेत् अस्मिन् निर्दिष्टवाक्ये कुम्भीशब्दस्य किमपि प्रयोजनं नास्ति यतः धान्यं तावत् कुम्भी-पात्रे एव स्थाप्यते । परन्तु यस्य सविधे कुम्भीपात्रे एव स्थापयितुं पर्याप्तम् अल्पमेव धान्यम् अस्ति तस्य विषये अयं न्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=कुम्भीधान्यन्यायः&oldid=9415" इत्यस्माद् प्रतिप्राप्तम्