कुर्वन्नेवेह कर्माणि...

विकिसूक्तिः तः

कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः । - ईशावास्योपनिषत् २

अज्ञानिसाधकैः शतसंवत्सरपर्यन्तं कर्माणि कर्तव्यान्येव ।

अज्ञानिनः ज्ञानिनश्च इति मानवाः द्वेधा विभज्यन्ते । अज्ञानिनो नाम आत्मज्ञानरहिताः, फलापेक्षिणः
कर्मिणो मानवाः । ज्ञानिनस्तु आत्मतत्त्वविदो धीराः । एतेषां न किञ्चिदपि प्राप्तव्यं फलं विद्यते, कुतः ?
आत्मनिष्ठत्वात् । न हि ज्ञानिनां केनापि कर्मणा कृतेन प्राप्तव्यानि फलानि विद्यन्ते ॥

अज्ञानिनो हि फलार्थम् अधर्मानुष्ठानमपि कुर्वन्ति । फलापेक्षिणां फलेष्वेव आसक्तिः, न तु धर्मानुष्ठानेषु । एतान्
उद्दिश्य अत्र ‘सत्कर्माणि कर्तव्यानि’ इत्ययं मन्त्रः उपदिशति । अज्ञानिनः साधकाः कर्मयोगं कुर्युः । परपीडाकराणि
शास्त्रनिषिद्धानि समाजघातकानि च पापकर्माणि त्यक्त्वा साधून्येव कर्माणि साधकः कुर्यादित्यर्थः । तानि च भगवदर्पणबुद्ध्या
क्रियन्ते चेत् ततः चित्तशुद्धिद्वारा साधकस्य ज्ञानप्राप्तियोग्यता भवति ॥