कुलम्

विकिसूक्तिः तः
  • यदि च विभवरूपज्ञानसत्त्वादयः स्युर्न तु कुलविकलानां वर्तते वृत्तशुद्धिः ।
    • अविमारकम्, पृ ० ५

कुलकन्यका[सम्पाद्यताम्]

  • यॆन पुरुषेण कुलकन्यका करे गृहीत तथा तस्य धर्मदारैर्भवितव्यं खलु ।
    • कमलिनीकलहंसम्, पृ ० ५८

कुलपर्वताः[सम्पाद्यताम्]

  • न कम्पन्ते झंझामरुति किल वाति प्रतिदिशम् ।
समुन्मूर्च्छत्साराः कुलशिखरिणः किञ्चिदपि ते ॥
    • महावीरचरितम्, VI. ३६

कुलप्रतिष्ठा[सम्पाद्यताम्]

  • अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य ।
    • उत्तररामचरितम्, V. २५

कुलविरोधः[सम्पाद्यताम्]

  • सति च कुलविरोधे नापराध्यन्ति बालाः ।
    • पञ्चरात्रम्, III.४

कुलीनाः[सम्पाद्यताम्]

  • असन्त इव सन्तोऽपि कोपयन्ति परं नरम् ।
निजक्षमागुणोदारपरिपाकं परीक्षितुम् ॥
    • स्वानुभूतिः पृ ० ५
"https://sa.wikiquote.org/w/index.php?title=कुलम्&oldid=6350" इत्यस्माद् प्रतिप्राप्तम्