कुशकाशावलम्बनन्यायः

विकिसूक्तिः तः

कुशः, काशः इति तृणविशेषस्य नाम । आपत्काले तादृशस्य अल्पस्य आधारस्य साहाय्येन आपत्तितः आत्मानं रक्षितुं यदि कोऽपि इच्छेत् तर्हि तत् निष्फलं भवति इति बोधयितुमस्य न्यायस्य प्रयोगो भवति

द्रष्टव्यम् – जैमिनिसूत्रव्याख्याने तन्त्र वार्तिके १-३-२४ (पृष्ठे २६८) । ब्रह्मसूत्रभाष्यकारैः अपि स्वसंप्रदायस्य सरर्थनार्थं प्रयत्नाः कृताः । क्वचित् मूलग्रन्थे वर्तमानं वाक्यमपि विपरिणमय्य स्वाभिप्रेतः अर्थःदर्शितः । तादृशः प्रयत्नः कुशकाशावलम्बनं भवति इति उच्यते ।

"https://sa.wikiquote.org/w/index.php?title=कुशकाशावलम्बनन्यायः&oldid=9440" इत्यस्माद् प्रतिप्राप्तम्