कुसुमस्तबकन्यायः

विकिसूक्तिः तः

पुष्पस्तबकस्य सामान्यतः वृत्तिद्वयं दृश्यते । देवतामूर्तेः उपरि, मनुष्याणां शरीरस्य उपरि किंवा शवस्य उपरि अथवा एवमेव कुत्रचित् नाशः । स्वाभिमानिनः पुरुषा एवंविधा भवन्ति सर्वेषां मूर्ध्नि ते विराजन्ते अथवा अज्ञाताः एव नश्यन्ति ।

कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः ।

मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥(सा. ९८५) नीतिशतकं ३३

"https://sa.wikiquote.org/w/index.php?title=कुसुमस्तबकन्यायः&oldid=9442" इत्यस्माद् प्रतिप्राप्तम्