कूपकूर्मन्यायः

विकिसूक्तिः तः

१. कूपे वर्तमानः कूर्मः कूपमेव विश्वं मन्यते । तथा संकुचितमानसाः जनाः स्वक्षेत्रमेव विश्वं मन्यन्ते ततः तेषां प्रवृत्तिरपि संकुचिता भवति इति न्यायेनानेन बोध्यते ।

समानः-कूपमण्डूकन्यायः

2 यस्मिन् कूपे जन्म जातं तत्रैव निःशेषं जन्म यापयति कूर्मः । अन्यत्र गन्तव्यमित्यपि सः न भावयति । संकुचितवृत्तेः जनस्य वर्णनाय अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=कूपकूर्मन्यायः&oldid=9448" इत्यस्माद् प्रतिप्राप्तम्