कूपखानकन्यायः

विकिसूक्तिः तः

कूपखननसमये कूपखानकस्य शरीरस्य उपरि धूलिः कर्दमश्च लगत्येव । परन्तु किञ्चित्कालानन्तरं कूपे यदा जलं जायेत् तदा तेनैव जलेन सः आत्मानं स्वच्छं कर्तुं शक्नोति । वेदान्तेऽपि अस्य न्यायस्य प्रयोगः एवं भवति यत् भेदबुद्ध्या उत्पन्नानां दोषाणां निराकरणं क्रमेण उत्पन्नया अभेदबुद्ध्या भवति इति ।

(पतञ्जलिमहाभाष्यस्य प्रथमाहिनके न्यायस्य अस्य प्रयोगः सुन्दररीत्या कृतः । साधुशब्दानां ज्ञानेन धर्मः, असाधुशब्दानां ज्ञानेन च अधर्मः भवति इत्युक्ते आदौ असाधुशब्दाः ज्ञेयाः भवन्ति तेन च अधर्मः एव भवेत् किल इति शङ्कां निरस्यता महर्षिणा कथितं –कूपखानकन्यायेन अग्रे साधुशब्दानां ज्ञानं यदा भवेत् तदा पूर्वोत्पन्नः अधर्मः तेन धर्मबलेन नष्टः भवेत् इति)

"https://sa.wikiquote.org/w/index.php?title=कूपखानकन्यायः&oldid=9452" इत्यस्माद् प्रतिप्राप्तम्