कूपमण्डूकन्यायः

विकिसूक्तिः तः

कूपे वर्तमानः मण्डूकः चिन्तयति अयमेव कूपः सर्व विश्वम् इति । तथैव संकुचिते वातावरणे जीवतः मनुजस्य विश्वमपि अल्पं संकुचितं च भवति । तादृशस्य मनुजस्य विषये अस्य न्यायस्य प्रयोगः भवति ।

कमपि विषयं सत्यत्वेन कस्मिन्नपि विदुषि प्रतिपादयति सति कश्चन अल्पज्ञः तत् सत्यत्वेन न स्वीकरोति । तादृशप्रसङ्गम् उदिदश्य अस्य न्यायस्य प्रयोगो भवति ।

तुल्यः –कूपकूर्मन्यायः

"https://sa.wikiquote.org/w/index.php?title=कूपमण्डूकन्यायः&oldid=9454" इत्यस्माद् प्रतिप्राप्तम्